________________
रामायणम् ।
किञ्चिञ्चक्षुभतुकापात् कुम्भकर्णविभीषणौ । गुरुभक्तिस्तव हेतु र्न पुनः खल्पसत्वता ॥ ५५॥ रावणः परमार्थज्ञ स्तमनर्थमचिन्तयन् । विशिष्टध्याननिष्ठोऽमूहिरींद्र द्रव निश्चलः ॥ ५६॥ साधुसाध्वित्यभूद्दाणो गीर्वाणानामथाम्बरे । ते च द्रुतमुपास श्चिकिता यक्ष किङ्कराः ॥५७॥ ईदृशचक्रवर्त्तिन्य इति जल्पन्त उच्चकैः ।
३१
विद्याः सहस्रमभ्येयुर्दशास्त्रं द्योतिताम्बराम् ॥५८॥ प्रज्ञत्तीरोहिधी गौरीगान्धारी च तथा परा । नभः सञ्चारिणी कामदायिनी कामगणी ॥ ५६ ॥ अणिमा लघिमा ऽक्षोभ्या मनस्तंभनकारिणो । सुविधानातपोरूपा दहनीविपुलादरी ॥६॥ शुभप्रदा रजोरूपा दिनरात्रिविधायिनी । वज्जोदरी समाकृष्टिरदर्शन्यजरामा ॥ ६१ ॥ अनलस्तम्भनी तायस्तम्भनी गिरिदामणी । अवलोकनी तु वह्निद्यगधीरा मुजङ्गिनी ॥ ६२ ॥ चारणी भुवनाबध्या दारणी मदनाशिनी । भास्करीरूपसम्पन्नी रोशानी विजयाजया ॥ ६३ ॥ वईनीमोचनी चैव बाराही कुटिलाकृतिः । चित्तोद्भवकरी शान्तिः कौवेरी वशकारिणी ॥ ६४ ॥