________________
३४५
रामायणम् ।
इतश्च तो क्षणेनापि दोनन्तौ लवणांकुशौ । रामसैन्यं दुधुवतुः क्षयो वान्ताब्धिदुर्द्धरौ ॥१७॥ यत्र यत्र भ्रमतुस्तौ वने सिंहाविवोहतौ । रथी सादी निषादी वा न तत्रास्थाष्टतायुधः ॥ १८ ॥ हतं विद्रुतमेवञ्च रामसैन्य विधाय तौ । केनाप्यखलितौ रामं सौमित्रिं चेयतु र्युधि ॥१६॥
प्रेच्य रामसौमित्री एवमन्योन्य मूचतुः । कावप्य तावभिरामौ कुमारौ विद्विषौ च नः ॥ २०॥ निसर्गात् स्ह्यिति मनेा बलाति किन्विदम् । उद्यच्छावः किमाश्लेष्टु मेतौ योधयितुं नवा ॥ २१ ॥ इति व्याहारिणं रामं रथस्य लवणो रथी । लक्ष्मणञ्चाङ्ग ु शोऽवोचत् सौष्टवप्रश्रयान्वितम् ॥२२॥ जैवं जगदजव्यस्य रावणस्यापि दोमतः । दिव्याऽद्राक्षं वीरयुद्धश्रद्धालु स्त्वामहञ्चिरात् ॥२३॥ नापूर्य्यत रणखडा रावणेनापि ते ध्रुवम् । एष तां परयिष्यामि त्वञ्च मे पूरयिष्यसि ॥ २४ ॥ इत्युक्तौ रामसौमित्री द्वौ तौ च लवणांकुशौ । आस्फालयामासतुः खं खं धनुर्ध्वानभीषणम् ॥२५॥ कृतान्तसारथी रामस्यन्दनं वञ्चजङ्गराट् । अनङ्गलवणरथ मभ्यढ़ौकयतां मिथः ॥ २६॥
४४