________________
रामायणम् । धात्रीजनै ल्यमानौ लीलादुर्ललितावुभौं। क्रमेण वधाते तावाश्विनाविव भूचरौ ॥३७॥ कलाग्रहणयोग्यौ तावजायेतां महामुजौ। कलभाविव शिक्षा नरेन्द्रनयनोत्सवौ ॥३८॥ तदा च नाम्ना सिद्धार्थोऽणुव्रती सिद्धपुत्र कः । विद्याबलर्डिः सम्पन्नः कलागमविचक्षणः ॥३६॥ स्विसन्ध्यमपि मेवं द्रौ चैत्ययात्रासु चंक्रमैः । आकाशगामी भिक्षार्थ वैदेहीगृहमाययौ ॥४०॥ वैदेद्या भक्त पानाद्यैः थद्धया स च भोजिनः । तथा मुखविहारच तया पृष्ठ स्तदावदत् ॥४१॥ तेनापि दृष्टा वैदेही सुतजन्मावधि स्वकम् । मलादृत्तान्तमाचख्यौ तस्य भातुरिवाग्रहः ॥४२॥ उचेष्टाङ्गनिमित्तजः सिद्धार्थः करुणानिधिः । किं ताम्यसि मुधा यस्या स्तनौ लवणङ्कशौ ॥४३॥ प्रशस्तलक्ष्मणैः साक्षादिव तौ रामलक्ष्मणौ । मनोरथंच तव सुतौ न चिरात्परयिष्यतः ॥४४॥ तेनेत्याश्वासिता सीता तमभ्यर्थ्य कृताग्रहा। स्वगृहे धारयामास पुत्राध्यपनहेतवे ॥४५॥ स भव्याविति तत्पुत्रौ सर्वा अग्राहयत्कलाः । तथा यथा तावमतां दुर्जयो द्युसदामपि ॥४६॥
४३