________________
रामायणम् । अथोचे लक्ष्मणः खामि स्तस्मिन्नद्यापि सा बने। महासती खप्रभावनाता ननं भविष्यति ॥२७॥ गत्वा गवेषयित्वा च खयमानीयतां प्रमोः। सीता देवी त्वहिरहान्नहि यावहिपद्यते ॥२८॥ श्रुत्वैवं सहतेनैव सेनान्या खेचरैश्च तैः। रामोऽगायोमयानेन तवारण्येऽतिदारुणे ॥२८॥ प्रतिस्थलं प्रतिजलं प्रतिशैलं प्रतिमम । रामो गवेषयामास ददर्श नतु जानकीम् ॥३०॥ मन्ये व्याघ्र ण सिंहेन श्वापदेनाऽपरेण वा । सीता जग्धातिसुचिरं दध्यौ रामोऽतिदुःखितः ॥३१॥ सीता प्राप्तौ विमुक्ताशो निहत्ता खपुरी ययौ। पौरैः सीतागुणग्राहं निन्दप्रमानो मुहुर्मुडः ॥३२॥ प्रेतकार्यञ्च सीतायाः पद्माऽकार्षीदुदश्रुहक् । पश्यन सीतामयमिव सर्व सन्यमिवाद्यवा ॥३॥ सैका हृदि दृशोरग्रे तस्थौ रामस्य वाचि च। कापि तिष्ठति सीतेति तथापि न विवेद सः॥३४॥ इतश्च तत्र वैदेही सुषुबे युग्मिनौ सुतौ । नामतेोऽनङ्गलवणं मदनाङ्कशमष्यथ ॥३५॥ वन नवस्तयोश्चक्र जन्मनाम महोत्सवौ । खपुत्रलाभादधिकं मोदमानो महामनाः ॥३६॥