SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ रामायणम। तच्छत्वा स्यन्दनात्मीता भर्छिता न्यपतदमुवि । मतेति बया सेनानी पापंमन्यो रुरोद सः ॥१६ सीतापि वनवातेन कथञ्चित्याप चेतनाम् । भूयो भूयोऽयमूर्छच्च चेतनामा ससाद च ॥१७॥ महत्यामथ वेलायां सुस्थीभूयेत्युवाच सा। इतोऽयोध्या कियहरे रामस्तिष्ठति कुव वा ॥१८॥ सेनानीरभ्यधाददूरेऽयोध्या किं टच्छयानया । उग्राजस्य च रामस्य पर्याप्तं देवि वार्तया ॥१६॥ इति श्रुत्वापि सा रामभक्ता मयोप्यभाषत + भद्र महाचिकमिदं शंसे रामस्य सर्वथा ॥२०॥ यदि निर्वादभीतस्त्वं परीक्षां नाऽवधाः कथम् । शङ्कास्थाने हि सर्वामि दिव्यादि लमते जनः ॥२१॥ अनुमोक्ष्ये खकर्माणि मन्दभाग्या वनेप्यहम् । नानुरूपं त्वकार्षीस्वविवेकस्य कुलस्य च ॥२॥ यथा खलगिराऽत्याक्षीः स्वामिन्नेकपदीपि माम् । तथा मिथ्यादृशां वाचामधर्म जिनमाषितम् ॥२३॥ इत्युक्त्वा मच्छिताममौ पतितोत्याय चाभ्यधात । मया विना कथं रामो जीविष्यति हतास्मि हा ॥२४॥ रामाय स्वस्ताथाशंसे राशिषं लक्ष्मणस्य च । शिवास्ते सन्तु पन्थानो वत्स गच्छोपराववम् ॥२५॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy