________________
३
रामायणम् । कृतान्तवदनं रामोऽन्वशात्मीतां वने नय। सम्मेत यावाव्याजेन तस्याः खल्वेष दोहदः ॥६॥ सेनानीरपि संमेतयावायै रामशासनम्। आख्याय सीतामारोप्य स्यन्दने प्राचल दद्रुतम् ॥७॥ दुनिमित्तेष्वशकुने ष्वपि सीता रथस्थिता। जगाम दूरमध्वान माज्जवादवशङ्किता ॥८॥ गङ्गासागरमुत्तीर्याऽरण्ये सिंहनिनादके । गत्वा कृतान्तवदन स्तस्थौ किञ्चिदिचिन्तयन ॥६॥ साथम्लानमुखन्तञ्च प्रेक्ष्य सीताऽब्रवीदिति । , कथमित्यं स्थितोसि त्वं सशोक इव दुर्मनाः ॥१०॥ कृतान्तः कथमष्य चे दुर्वचं वच्ग्यहं कथम् । टुष्करं कृतवाश्चैतत् प्रेष्यमावेन दूषितः ॥११॥ राक्षसावाससंवासापवादातलोकजन्मनः । मीतेन देवी रामेण त्याजिताऽसि वनेऽनघे ॥१२॥ अपवादे चराख्याते रामं त्वत्ताजनोद्यतम् । न्यषेधी लक्ष्मणो लोकं प्रतिक्रोधारुणेक्षण: ॥१३॥ सिद्धाञ्जया निषिद्धश्च रामेण स रुदन ययौ। अहम्न प्रेषितोऽमुनिन कार्य पापोऽस्मि देविहा ॥१४ अमुष्मिन श्वापदाकीर्ण मृत्योरेकनिकेतने। जीवियसि मया त्यता खप्रभावेण केवलम् ॥१५॥