________________
रामायणम् ।
३२६
आजन्मोपार्जितां कोर्त्ति निजं कुलमिवामलम् । प्रवादसह नेन त्वं मादेव मलिनीकृथाः ॥ ८६ ॥ कलङ्कस्यातिथोभूतां सीतां निश्चित्य राघवः । सद्यो मुद् दुःखतूष्णीकः प्रायः प्रेमातिदुस्त्यजम् ॥ ८७ ॥ मालम्ब्य का कुस्थ स्तानुवाच महत्तरान् । साधु व्यज्ञापि युभाभिर्न भक्ताः काप्युपेचकाः ॥ ८८ ॥ न स्त्रीमात्रकृते जातु सहिष्येहमिहाऽयशः । इति पद्मः प्रतिज्ञाय विससर्ज महत्तरान ॥८६॥ निशायामथ का कुस्थः प्रच्छन्नः सदनाद्वहि: ! निरगादितिचाश्रौषो ज्जनवाचं पदे पदे ॥६॥ रावणेनापनीतेयं तद्गृहे च चिरं स्थिता । सीता नीता च रामेण सतीतिच स मन्यते ॥११॥ सीतारक्तेन तेनेयं नोपभुक्ता कथं भवेत् । नादापि व्यमृद्रामो न रक्तो दोषमीक्षते ॥६२॥ इत्यादि सीतानिर्वादं श्टखन् राम्रो गृहे ययौ । भूयोपि तच्छ्रवणार्थ मादिदेश चरान् वरान ॥१३॥ एवञ्च दध्यौ काकुस्थो मया यस्याः कृते कृतः । रक्षःकुलक्षयो रौद्रस्तस्या किमिदमागतम् ॥६४॥ जाने महासती सीता स्त्रीलेालः सच रावणः | कुलञ्च मे निष्कलङ्क हा रामः किङ्करो त्वसौ ॥६५॥
४२