________________
रामायणम् । पुष्पन्ति वकुलप्राया वृक्षा स्त्रीदत्तदोहदैः। रन्तु वजामा महेन्द्रोदयोद्यानं ततोऽधुना ॥६६॥ . 'सीताप्यचे दोहदो मे देवतार्चन लक्ष्मणः।.. तं परेयोद्यामभवै नानाषुणैः सुगन्धिभिः ॥६॥ रामः सद्योपि देवानां पूजाञ्च- मकारयत् । ययौ महेन्द्रोदये च ससोतः सपरिच्छदः ॥८॥ विचित्रनगरक्रीडं तत्राऽपश्यन्मधूत्सवम् । अर्हत्पूजोत्सवमयं सुखासीनो रघदहः ॥६॥ अत्रान्तरे च सीताया दक्षिणञ्चक्षुरस्फुरत् । आचचक्षे च सद्योपि साशङ्का राघवाय सा ॥७॥ नेदं साध्विति रामेणाखवाते सीता ब्रवीदिति । किं रक्षोद्दीपवासान्मे सन्तष्टोऽद्यापि नोविधिः ॥७॥ त्ववियोगभवाददुःखाद दुखमद्यापि मेऽधिकम् । किमसौ दास्यति विधि निमित्तं नैतन्यथा ॥७२॥ रामापि तामुवाचैवं देवि माखेदमुहह । अवश्यमेव भोक्तव्ये कर्माधोने सुखाऽसुखे ॥७३॥ तगच्छ मन्दिरे स्खस्मिन देवानामचनं कुरु । प्रयच्छ दानं पात्रेभ्यो धर्मः शरणमापदि ॥७॥ सीतापि गत्वा सदनं संयमेन महीयसा । अईतेोऽपपुजहानं प्रददे चावदानवत् ॥७॥