SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ रामायणम् । ३२१ भानुप्रभादीन् स भ्राहृन् बच्चा ष्टावपि चाग्रहीत् । तन्मुक्त्यै मन्त्रिणोऽप्रैषी चन्द्रप्रभोऽचलान्तिके ॥ ६ ॥ आख्यत्तेषां खष्टत्तान्तमचलस्तेपि मन्त्रिणः । विज्ञाय गत्वा चाचख्यु श्चन्द्रभद्राय सत्वरम् ॥७॥ अचलञ्चन्द्रभद्रोपि हृष्ट: पुर्य्यामवीविशत् । क्रमेण निजराज्ये तं लघ्वीयांसमपि व्यधात् ॥८॥ पित्रा निर्वास्यमानांस्तान् भ्राहृन् भानुप्रमादिकान् । कथञ्चिदचलो रक्षच्चक्रे चादृष्टसेवकान् ॥६॥ अन्यदा नटरङ्गस्थेनाङ्को दृष्टोऽचलेन सः । हन्यमानः प्रतीहारै रानायि च निजान्तिके ॥१०॥ तस्मै तज्जन्मभूमिं तां श्रावस्तीमचलो ददौं । तौ द्वौ सम्भूय चक्राते राज्यमद्वैत सौहृदौ ॥११॥ तावन्यदा प्राव्रजतां समुद्राचार्य्यसन्निधौ । मृत्वा कालेन चाभूतां ब्रह्मलोके सुरोत्तमौ ॥१२॥ च्छ्रुत्वा ततोऽचलो जोवः शत्रुघ्नोऽभूत्तवानुजः । प्राग्जन्ममोहनीयेन ततोऽसौ मथुराग्रही ॥ १३ ॥ च्छ्रुत्वा ततोङ्कजीवोऽपि सेनापति रयं तव । कृतान्तवदनो नाम समजायत राघवः ॥ १४ ॥ इतश्च श्रीनन्दनस्य प्रभापुर पुरेशितः । भार्य्यायां धरणीनाम्यां सप्ताभूवन् क्रमात्सुताः ॥ २५ ॥ ४१ -
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy