________________
३२०
रामायतम् ।
विमुक्तः प्राव्रजत्सोपि तपस्तप्ता दिवं थयो । च्युत्वा च मथुरापु | चन्द्रभंद्रनृपात्मजः ॥६६॥ सकाञ्चनप्रभा राज्ञी कुक्षिभूरचलाभिधः । अत्यन्तवल्लभश्वासीञ्च चन्द्रप्रभस्य भूपतेः ॥६७॥ भानुप्रभाद्यैः सापत्नैः सोऽचलाऽष्टभिरग्रनैः । व्यापादयितु मारेभे राजाऽयं मास्म भदिति ॥६८॥ तन्मन्त्र े मन्त्रिणाख्याते नष्ट्रागादचलोन्मतः ।
मंश्चाविध्यत वने कण्ट केन गरीयसा ॥६६॥ सक्रन्दन्पथि दृष्टश्च पुंसा श्रावस्तिवासिना । पितृनिर्वासितेनाङ्कनाम्नैघोभारघारिणा ॥ २००॥ काष्ठभारं विमुच्याङ्कोऽपनिन्ये तस्य कण्टकम् । हृटः स कण्टकं दत्बोवाचाङ्कं साधु भो कृतम् ॥१॥ अचलं मथुरापुर्य्यां त्वं शृणोषि यदा नृपम् । तदा तत्र समागच्छेः परमो ह्युपकार्यसि ॥ २ ॥ कीशांव्यामचलाथागात्तव सिंहगुरोः पुरः । इन्द्रदन्तनृपं धन्वाभ्यस्यन्तं समुदैच्चत ॥३॥ सिंहेन्द्रदत्तयोः सोपि धानुष्क त्वमदर्शयत् । तस्मै दत्तामिन्द्रदत्तोऽदत्तपुत्रीं भुवा सह ॥४॥ सोऽसाधयज्जातबलो देशानङ्गादिकां रूतः । मथुरां चान्यदागच्छद् युयुधे चाग्रजैः सह ॥५॥