SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ रामायणम् । भयङ्करं दिविषदामप्येकं पदमापदाम् । भाटभ्यां सहित स्ताभ्यां तदरण्यं विवेशसः॥२५॥वि० ते जटामुगुटान्मनि धारयंतस्तपस्विवत् । अक्षसूत्रधरा नाशावंशाग्रन्य स्तदृष्टयः ॥२६॥ श्वेतांशुकम्तायामहित येन नयोपि हि । सर्वकामप्रदामष्टाक्षरां विद्यामसाधयन् ॥२७॥ दशकोटीसहस्राणि अपौ यस्य फलप्रदः । पारेभिरे ते अपितु तं मन्वं षोडशाक्षराम ॥२८॥ तदाश्वनादृतो नाम जम्बूद्वीपपतिः सुरः । सान्तःपुरं क्रीडनाय तनायातो ददर्शतान् ॥२६॥ विद्यासाधनविघ्नाय तेषां यत्राधिपः सतु । अनुकलोपसायप्रजिधाय स्वयोषितः ॥३०॥ तेषां क्षोभार्थमायाता स्तपै रतिसुन्दरैः । ताः क्षोभ स्वयमेवेयुर्विस्मृतखामिशासनाः ॥३१॥ निर्विकारान् स्थिराकारां वष्णीकानवलोकतान् । अकृत्रिमस्मरवेशविवशा स्ता बभाषिरे ॥३२॥ मो मो ध्यानजडा यूयं यत्नतः पश्यता ग्रतः । देव्योपि च वशीमताः का वः सिद्धिरतः परा ॥२॥ किं विद्यासिइये यत्नस्तक्लेशेनामुनाकृतम् । किं करिष्यथ विद्याभिर्देव्यः सिद्धा वयं हि वः ॥३४॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy