________________
रामायणम् ।
दश्यमानमविद्याधरोभिः कृतमङ्गलः। ऋध्या महत्येन्द्र इत्र लङ्कायां प्रविशत्पुरि ॥ ३६ ॥ गिरेः पुष्पगिरे मूर्द्धन्युद्याने तत्र मैथिलीम् । गत्वा ददर्श काकुस्यो यथा ख्यातां हनूमता ॥३७॥ तामुत्क्षिप्य निजेोत्सङ्गे द्वितीयमिव जीवितम् । तदैव जीवितं मन्यो धारयामास राघवः ॥ ३८ ॥ इयं महासती सीता जयत्विति मरुत्पथे । दानीं जुहृषुः सिद्धगन्धब्बीद्या: प्रमोदिनः ॥ ३६ ॥ सीतादेव्या नमश्चक्र े पादौ प्रक्षालयन्निव । निरन्तरैरथुजलैः सुमित्रानन्दनो मुद्दा ॥४०॥ चिरञ्जीव चिरं नन्द चिरञ्जय मदाशिया । इति ब्रुवाणा वैदेही जघो शिरसि लक्ष्मणम् ॥४१॥ भामण्डलो नमक सीतां सीतापि तं मुदा । आशिष्यानन्दयामास मुनिवाक्य समानया ॥ ४२ ॥ खनामाख्यानपर्व्वञ्च कपिराजो विभीषणः । हनुमानङ्गदोऽन्येपि प्रणेमुर्जनकात्मजाम् ॥४३॥ पार्श्वखेन शगाङ्गेन चिरात् कुमुदिनीव सा । रामेण शुशुभे सीता विकारां समुपेयुषो ॥ ४४ ॥ ससीतोऽध्याभवनालङ्कारं राघवो गजम् । जगाम रावणावासं सुग्रीवाद्यैः समादृतः !!४५ ॥
३०४