________________
रामायणम् ।
क्रमेणोद्यौवनः प्राप्त राज्यः सरतिवर्डनः । पितेबारेमे विविधं रमणीभिः समाष्टतः ॥ २६ ॥ सृत्वा प्रथम साधुस्तु निर्निदानतपोवशात् । बभूव पञ्चमे कल्पे त्रिदशः परमद्विकः ॥ २७॥ सोऽवतरं ज्ञात्वा तत्रोत्पन्नं महीपतिम् । तं बोधयितुमभ्यागान्मुनिरूपधरः मुरः ॥२८॥ रतिवर्द्धनराजे नाऽर्पिते पट्टे निषद्य सः । शसंस प्राग्भवन्तस्य स्वस्य च भ्रातृसौहृदात् ॥२६॥ सञ्जाति नातिस्मरणो विरक्तो रतिवर्द्धनः । प्रावाजीदथ म्टत्वा च ब्रह्मलोके सुरोभवत् ॥३०॥ च्यत्वा ततो विदेहेषु विबुद्धनगरे युवाम् । अभूतां भ्रातरौ भूपौ प्रव्रज्याऽच्युतमीयतुः ॥३१॥ . च्युताऽच्युताद्दशास्यस्य प्रतिविष्णो स्तुसम्प्रति । पुत्रौ युवामजायेथामिन्द्र जिन् मेघवाहनौ ॥३२॥ रतिवर्द्धनमाता तु भवं भ्रांत्वेन्दुमुख्यपि । मन्दोदरी समभवज्जननी युवयोरियम् ॥३३॥ कुमाकर्णेन्द्र जिन् मेघवाहनाद्या निशाम्य तत् । मन्दोदर्य्यादयञ्चापि तदैवाददिरे व्रतम् ॥३४॥ मुनिं नत्वातु तं रामः ससौमित्रिकपीश्वरः । विभीषणेन प्रह्वेन वेत्रिणेनाग्रगामिना ॥ ३५ ॥
३०३