________________
३०२
रामायणम् । नार्थी राज्येन नः कश्चित्याज्ये नापि महाभुज । ग्रहीष्यामः परिव्रज्यां मोक्षसाम्राज्यसाधनीम् ॥१६॥ अत्रान्तरे च कुसुमायुधोद्याने महामुनिः । अप्रमेयबलोनाम चतुर्तानी समाययौ ॥१७॥ तत्रैव निशि तस्यात् केवलज्ञानमुज्वलम् । चक्रश्च केवलज्ञानमहिमानन्दि वौकसः ॥१८॥ प्रातच रामसोमित्री कुम्भकर्णादयश्च ते। उपेत्य तमवन्दन्त ततो धर्मच शुश्रुवुः ॥१६॥ पप्रच्छतु र्देशनान्ते शक्रजिन्मेघवाहनौ। .. परं वैराग्यमापन्नौ पुरातनभवान्निजान् ॥२०॥ मुनिः सोऽथाब्रवीत्यु- कौशांव्यामिह भारते। निःखौ बन्धू युवां जातौ नाना प्रथमपश्चिमौ ॥२१॥ तावन्यदाभवे दत्तावर्म श्रुत्वा महामुनेः । व्रतं जगृहतुः शान्तकषायौ च विजह्वतः ॥२२॥ अन्येास्तौ तु कौशाम्ब्याङ्गतौ ददृशतुर्नुपम् । पत्नत्रन्दमुख्या कीडन्त नन्दिघोषं मधूत्सवे ॥२३॥ तं दृष्ट्वा पश्चिमोऽकान्निदानं तपसाऽमुना । ईदृक् कीडापरः पुत्रो मयासमनयोरहम् ॥२४॥ साधुभिर्वार्यमाणापि निदानान्नन्यवर्तत । मत्वा च पश्चिमा जजे तयोस्त: रतिवईनः ॥२५॥