________________
रामायणम् ।
मन्दोदर्य्यादिभिः सार्द्धं रुदन्तमुपरावणम् । इति तं बोधयामास पद्मनाभः सलक्ष्मणः ॥ ६ ॥ ईदृक्पराक्रमः सोऽयं नहि शोच्च दशाननः । यस्याऽशशङ्किरे दूरे समरेष्वमरा अपि ॥७॥ बीरदृत्त्यानया मृत्यु' गतोऽसौ कीर्त्तिभाजनम् । तदस्योत्तरकार्य्याणि कुरुध्वं रुदितैरलम् ॥८॥ इत्युदित्वा पद्मनाभो महात्मा प्राप्तबन्धनान् । कुम्भकर्णेन्द्र जिन्मेघवाहनादीनमोचयत् ॥६॥ विभीषणः कुम्भकर्णः शक्रजिन्मेधवाहनः । मन्दोदर्य्यपि सम्भूय परेपि पतदश्रवः ॥ १०॥ दशग्रीवाङ्ग संस्कारं सद्योगोशीर्ष चन्दनैः । कर्पूरा गुरुसन्मिषैर्विदधुर्ध्वालितानलैः ॥११॥ पद्मः पद्मसरस्येत्य तेच स्नात्वा जलाञ्जलिम् । सममखुजलैः कोष्णैः प्रददु दशमौलये ॥१२॥ गिराऽभिरामया रामः किरन्निव सुधारसम् । सलक्ष्मणः कुम्भकर्णप्रभ्टतीनित्यभाषत ॥ १३ ॥ ॥ पूर्ववत्स्वस्वराज्यानि कुरुध्व मधुनापि हि ।
लक्ष्मीर्न नः कृत्यं हे वीराः क्षेममस्तुवः ॥ १४ ॥ ॥ इत्युक्ताः पद्मनाभेन युगपच्छोकविस्मयौ । विवाणाः ॐम्भकर्णीद्या जगदुर्गद्गदाचरम् ॥१५॥
३०१