________________
२८८
रामायणम् ।
उद्भित्वां नियममङ्गभीरु त्वमधुना घुनः । मेविष्येऽहं प्रसह्य त्वां हत्वा त्वत्पतिदेवरौ ॥५५ ॥ तद्वाचा विषसधीच्या मर्च्छिता जनकात्मजा । निपपात दशास्यस्य तस्यामाशेव तत्क्षणम् ॥५६॥ कथञ्चिल्लब्धसंज्ञा सा जग्रा हैवमभिग्रहम् । मृत्युश्चेद्रामसौमिच्यो स्तदा स्वनशनं मम ॥५७॥ तच्छ्रुत्वा रावणो दध्यौ रामे स्नेहा निसर्गजः । अस्या स्तदस्यां मे रागः स्थले कमलरोपणम् ॥५८॥ कृतं युक्तं मया तन्नावज्ञातो यद्विभीषणः । नामात्पा मानिताः खञ्च कुलमेतत्कलङ्कितम् ॥५६॥ मुञ्चाम्येतामद्य चेत् न विवेकपदे पतेत् । रामाक्रान्तेन सुक्तेय मिति स्वात्प्रत्युताऽयशः ॥ ६० ॥ बड्ड ेह रामसौमित्री समानेष्ये तत स्तयोः । अर्पयिष्याम्य मूं धम्मं यशस्यञ्च हि तद्भवेत् ॥ ६१ ॥ इति निश्चित्य लङ्क ेश स्तामतीत्य विभावरीम् । युद्धे चचाल शत्रुनै र्वार्य्यमाणोऽपि दुर्मदः ॥६२॥ भूयः : प्रववृते युद्धं रामरावणसैन्ययोः । अत्युगटभटभुजा स्फोटवासित दिग्गजम् ॥ ६३॥ विधूयाऽशेषरक्षांसि तूलानीव महाबलः । लक्ष्मणः स्ताडयामास विशिखैर्दशकन्धरम् ॥६४॥