________________
२६० , रामायणम । जाते गर्ने तत्पमावाद्याधिना मुच्यताथ सा। सुषुवेच क्रमात्पुत्री विशल्यामभिधानतः ॥७॥ तह श व मद्देशेषुद्भुते व्याध्युपद्रवे । विशल्याः स्नानतोयेन सिक्तो लोकोऽभवद्विरुक॥७॥ पृष्ठो मया सत्यभतशरणो मुनिरन्यदा। वदतिस्म विशल्यायाः प्राग्जन्मतपसः फलम् ॥७॥ व्रणरोहणं शल्यापहारो व्याधिसङ्ग्यः । नणां स्नानाम्भसाप्यस्था भावीभर्ता च लक्ष्मणः॥७॥ तया मुनिगिरा सम्यग् ज्ञानादनुभवादपि । विशाल्यम्नानपयसः प्रभावो निश्चितो मया ॥७॥ इत्यदित्वा द्रोममेघो विशल्यानपनोदकम । ममापि ह्यार्पयत्तेनाऽभवद् भूमिर्ममाप्यरुक् ॥८॥ तस्या मानांमसाऽनेन मया सिक्त स्त्वमप्यहा। निःशक्तिशल्यसंरूढ़व्रणश्च त्वमभूः क्षणात ८१॥ भरतस्य ममाप्येव मुत्पन्नः प्रत्ययः प्रभोः। आप्रत्यूषादानयत विशल्यास्नानवारि तत् ॥८२॥ त्वयंतां त्वर्यतां तस्मात् प्रत्यूषे किं करिष्यथ । पर्यस्ते शकटे हन्त किं कुर्वीत गणाधिपः ॥८॥ भामण्ड लं हनमन्तमङ्गदञ्च रघूह हः । आदिशत् प्रतिभरतं विशल्याम्नानवारिणे ॥८॥