________________
रामायण म्। भग्नेऽथ रावणे रामो नित्तत्रयाय लक्ष्मणम् । तं च दृष्टनिपतितं निपात मुवि मच्छितः ॥२५॥ सुग्रीवादिभिरासिक्तो रामचन्दनवारिणा । लब्धसंज्ञो निषद्योपसौमित्रीत्यगदद्रुदन ॥२६॥ तव किं बाधते वत्स व हि तूणों स्थितोसि किम् । संजयापि समाख्याहि प्रीणयाग्रजमात्मनः ॥२७॥ एते त्वन्मुखमीक्षन्त सुग्रीवद्या स्तवानुगाः । नानुगृह्णासि किं वाचा दृशा वा प्रियदर्शन ॥२८॥ जीवन् रणाद्रावणोगादिति लज्जावशाद्रवम् । न भाषसे तनाषख पूरयिष्ये तवेभिलम् ॥२६॥ रे रे रावण दुष्टात्मन् तिष्ठ तिष्ठ कयास्यसि । एष प्रस्थापयामि त्वां नचिराय महारथे ॥३०॥ इत्युक्त्वा धनुरास्फाल्योदस्थाद्यावद्रघहहः । तावत्कपीश्वरेणैव मूचे विनयपूर्वकम् ॥३१॥ खामिन्निशेयमगमल्लङ्काच स निशाचरः। शकिप्रहारविधुरः खामोनिश्चेष्ट वर्तते ॥३२॥ : धैर्यमाधेहि यानीहि हतमेव दशाननम् । प्रतिजागरणोपायं सौमित्र रुपकल्पय ॥३३॥ भूयो रामा जगादै हृता भार्या हतोऽनुजः । तिष्ठ त्यऽद्यापि रामाऽयं शतधा न विदीयं ते ॥३४॥