________________
रामायणम् ।
२८३ नागपाशः कुम्भकर्ण त्वबन्नालक्ष्मणाग्रजः । भामण्डलस्तं शिविरेऽनैषीद्रामाज्ञया ततः ॥५॥ अन्येपि प्रतियोहारो बडा रामस्य सैनिकैः । मेघवाहनमुख्यास्ते निन्यिरे शिविरे निजे ॥६॥ दृष्ट्वा दशमुखस्तन्त क्रोधशोकसमाकुलः । विभीषणाय चिक्षेप शूलं मलं जयश्रियः ॥७॥ तच्छलमन्तरालेपि कदलीकाण्डलीलया। चकार कणशोरामाऽवरजःपत्रिभिः शितैः ॥८॥ रणे इन्द्रप्रदत्तान्ताममोधविजयाह्वयाम् । विजयार्थी दशग्रीवो महाशक्तिं समुद्दधे ॥६॥ धगद्दगितिज्वलन्ती तडत्तडितिनादिनीम्। संहाराधितडिल्लेखामिव खे भमयत्सताम् ॥१०॥ अपसखुर्दिवि सुरा दृशं मैन्यान्यमीलयन् । तां विलोक्य न केप्यस्थः सुस्थितं सुस्थिता अपि ॥११॥ रामः सौमित्रिमित्यचेऽस्माकमेष विभीषणः । आगन्तुहन्यते हन्त धिग्न आथितघातिनः ॥१२॥ इति रामवचः श्रुत्वा सौमित्रिमित्रवत्सलः । विभीषणाग्रे गत्वा स्थादाक्षिपन दशकन्धरम् ॥१३॥ पुरस्थ गरुडस्थतं प्रेक्ष्योवाच दशाननः । न तुभ्यं शक्तिरक्षिप्ता मारथाः परम्मत्य ना ॥१४॥