________________
२६८
रामायणम् ।
नवेोऽपि देोनान्तः सामन्ताः कोटिशोऽपि च । शुकसारणमारीचमय सुन्दादयोऽभ्ययुः ॥५५॥ अक्षौहिणोनां सहस्रै र संख्यः संख्यकर्मठैः । दिशः प्रच्छादयन् पय्र्याः प्रचचाल दशाननः ॥ ५६ ॥ शार्दूलकेतवः केचित् केचिच्छरभकेतवः । चमूरुकेतवः केचित् केचित्कर टिकेतवः ॥ ५७॥ मयूरकेतवः केचित्केचित्पन्नगकेतवः । मार्जारकेतवः केचित्केचित्कुक्कुट केतवः ॥ ५८ ॥ कोदण्डपाणयः केचित्केचिन्निस्त्रिंशपाणयः । भुशुण्डि पाणयः केचित्केचिन्मुद्गरपाणयः ॥५६॥ त्रिशूलपाणयः केचित्केचित्परिघपाणयः । कुठारपाणयः केचित्केचिञ्च पाशपाणयः ॥ ६० ॥ विपञ्चवीरान् ष्टच्छन्तो नामग्राहं मुजर्मुजः । दशास्ववीरा चतुरं विचेरू रणकर्मणि ॥ ६१ ॥ वैतायस्येव सैम्यस्य प्रथिनाच्छाद्य मेदिनीम् । पञ्चाशद्योजनान्यस्थाद्रावणो रणकर्माणे ॥६२॥ खनायकान् प्रशंसन्तो निन्दन्तः परनायकान् । परस्परं चाक्षिपन्तः कथयन्तो मिथेोरभिधाः ॥ ६२॥ 'श्रस्वाण्यस्त्र'र्वादयन्तः करास्फोटपुरस्सरम् । रामरावणयोः सैन्या मिमिल: कांस्यतालुवत् ॥ ६४॥