________________
रामायणम् ।
२६१
साहाय्यार्थं त्वया इतोऽहमप्यभ्यागमं पुरा । रणे वरुणपुत्रेभ्य स्वामरचन्च सङ्कटे ॥६६॥ साहाय्यस्य न योग्योसि सांप्रतं पापतत्परः । सम्भाषोपि हि पापाय परखीहारिणस्तव ॥६७॥ त्वदीये तं न पश्यामि यहि त्वां मास्यतेऽधुना । एकस्मादपि सौमिवे दूरे रामस्तदग्रजः ॥६८॥ तहिरा कुपितोमालाहितम्ब कुटिभीषणः । दशाननो दमन्त्रोष्ठं दशनैरिदमभ्यधात् ॥६॥ मदरीनाश्रितोसि त्वं मां चारीकृतवानसि । तन्नूनं मर्तुकामोसि वैराग्यं तत्र किं तव ॥१००॥ यथा कुष्टविशीर्णा सुमर्षुमपि कोपि न । हत्याभयान्निइत्येवं हन्यात्को दूतमप्यरे ॥ १ ॥ आरोप्य रासमे पञ्चशिखीकृत्यच सम्प्रति । 'अन्तर्लङ्क प्रतिपथं म्भाग्य से लोकवेष्ठितः ॥२॥ इत्युक्तो मारुतिः क्रुद्धो बोटयत्पाशपन्नगान् । बद्दोन्हि नलिनीनालेः कियत्तिष्ठति कुञ्जरः ॥३॥ तडिद्दण्ड इवोत्पत्य किरीटं राक्षसप्रभोः । कणशचूर्णयामास पादवातेन मारुतिः ॥ ४ ॥ हन्यतां गृह्यताञ्चैष इति जल्यति रावणे । आनाथामिव सोऽभाङ्गीत्तत्पुरीं पाददुद्द`रैः ॥५॥