SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ २५६ रामायणम् । आख्याञ्च हनुमानस्मि मवनाञ्जनयोः सुतः । विद्ययाव्योमयानेन लङ्गितो जलधिर्मया ॥४६॥ समस्तवानराधीशं सुग्रीवं विद्विषद्दधात् । पतिं कृत्वाधिकिष्किन्धमस्ति रामः सलक्ष्मणः ॥४७॥ रामोपि त्वद्वियोगेन तपमानो दिवानिशम् । गिरिर्हुबानलेनेव तापयन्न परानपि ॥ ४८॥ गवेव वत्सोरहितस्त्वया खामिनि लक्ष्मणः । न जातु लभते सौख्यं शून्याः पश्यन् दिशोऽनिशम् ॥४६ क्षणं सोको सक्रोधौ चणन्ते पतिदेवरौ । सुग्रीवेणाश्वास्यमानावपि न प्राप्नुतः सुखम् ॥५०॥ भामण्डलोविराधश्च महेन्द्राद्याश्च खेचराः । पत्तीभूयोपासते ती शक्शानाविवामराः ॥ ५१॥ तव प्रष्टत्तिमानेतुमहं सुग्रीवदर्शितः । रामेण प्रेषितो देवि समर्पङ्गुलीयकम् ॥५२॥ चूडामणिरभिज्ञानं त्वत्त आनायितो भया । तद्दर्शनेन मामत्रायातं प्रत्येष्यति प्रभुः ॥ ५३॥ हनुमदुपरोधेन रामोदन्तमुदा च सा । विंग्रते रूपवासानामन्त े व्यधित मोजनम् ॥५४॥ प्रोवाचैवमभिज्ञानं चूडामणिमिमं मम । गृहीत्वा वत्स गच्छाशु तिष्ठतः खादुपद्रवः ॥ ५५ ॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy