________________
रामायणम् ।
३५१
एकाकारकरे विष्वक् तमः पूरे प्रसंयति । विश्व विश्वमना लेाकमभूत्पातालसन्निभम् ॥६६॥ स्फीतेऽन्धकारे निःशङ्काः कामिसंघट्टनेोत्सुकाः । खैरं जजंभिरे दूत्यो ह्रदे शफरिका इव ॥६७॥ आजानत्क्षिप्तमजीरा स्तमालस्यामलांशुकाः । म्मृगनाभिविलिप्ताङ्गयोऽभिसखुरभिसारिकाः ॥६८॥ अथोदयाद्रिप्रासादे सुवर्णकलशोपमः । कराङ्करमहाकन्द उदियाय निशाकरः ॥६६॥ नैसर्गिकेण वैरेण लक्ष्मना व्याजात्सहेन्दुना । नियुद्ध्यमिव तन्वानमन्धकारमलच्यत ॥ ३००॥ विपुले गोकुल इव क्रीडति स्म नमः स्तले । खैरङ्गोष्विव एतासु गवेन्द्र द्वेव चन्द्रमाः ॥१॥ व्यक्तमन्तःस्फुरलक्ष्मा म्टगलक्ष्मा व्यराजत । मृगनाभिद्रवाधाररुण्यभाजनसन्निभः ॥ २ ॥ स्खल्यमानाविइिभिरन्तरादत्तपाणिभिः । प्रसत्र : शीताग्रकराः शरा इव मनासुवः ॥ ३॥ चिरमुक्तामपि प्रोष्य पद्मिनीं प्राप्तदुर्दशाम् । म्मृङ्गाः कुमुद्दतीं भेजुर्धिगहे नीच सौहृदम् ॥ ४ ॥ शेफाल्या कुसुमानीन्दुः करपातैरपातयत् । प्रियमिवस्य पुष्पेषेाः सज्जीकर्तुमिषूनिव ॥५॥