________________
२४७
रामायणम् । तद्वात्सल्येन हनुमान् विद्ययादाय सागरात् । तं दावाग्निं मेघ इव शमयामास वारिभिः ॥ ५६ ॥ तदैव सिद्धविद्यास्ताः कन्या ध्यानस्थितौ सुतौ । मुनी प्रदक्षिणीकृत्य हनूमन्तं बभाषिरे ॥५७॥ साधूपसर्ग' साधूनामरक्षः परमाईतः । त्वत्साहाय्येन विद्यानः सिद्धा कालं विनापि हि ॥ ५८ ॥ का यूयमिति तेनोक्ताः कन्यास्ता एवमब्रुवन् । अस्मिन् गन्धर्वराजोस्ति राजा दधिमुखे पुरे ॥५६॥ स्मस्तस्य कन्याः कुसुम माला कुचिभवा वयम् । तातं ययाचिरे स्मासु बहवः खचरेश्वराः ॥ ६॥ खेचराङ्गारकोनामोन्मत्तश्चास्मत्कृतेऽभवत् । ततस्रस्मै न चान्यस्मै ददौ तातस्त्वरोचकी ॥ ६१॥ मत्पुत्त्रीणां पतिः कः स्यादित्यष्टच्छत्पिता मुनिम् । यः साहसगतेर्हन्ता स स्यादिति च सोवदत् ॥६२॥ (हिरा म्वेषयंस्तातो नोपलेभे तु तं क्वचित् । विद्यासाधनमस्माभि स्तं ज्ञातुञ्च प्रचक्रमे ॥ ६३ ॥ विद्याभ्रंसनिमित्तं बाङ्गारकेण कृतादवः । त्वया च शमितः साधु भो निष्कारणबन्धना ॥ ६४ ॥ मासैः सिद्ध्यति या षभिस्त्वत्माहाय्यात्क्षणादपि । सा मनोगामिनीनाम विद्या नः सिद्धिमाययौ ॥ ६५ ॥