SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ २४४ रामायणम् । हनुमानप्य वाचैवं कपयः सन्तप्रनेकशः । मत्प्रायाः स्नेहतस्त्वेतद्दक्ति सुग्रीवभूतिः ॥ २६ ॥ गवो गवाक्षो गवयः शरभो गन्धमादनः । मोला द्विविदमैन्दौ च जाम्बवानङ्ग दोनलः ॥२७॥ अन्येपि बहवः खामिन् सन्तोह कपिपुङ्गवाः । तेषां संख्यापूरणोऽहमपि त्वत्कार्य्यसिद्धये ॥२८॥ लङ्कां सराक्षसद्दीपामुत्पाद्येह किमानये । बेध्वा सवान्धवमथाऽनयामि दशकन्धरम् ॥ २८ ॥ सकुटुम्ब' दशग्रीवं हत्वा तत्रैव वा द्रुतम् । देवीं जनकणामेवानयामि निरुपद्रवाम् ॥३०॥ रामपि च जगादेव सर्वं सम्भवति त्वयि । तद्गच्छ पुर्य्य लङ्कायां सीतां तव गवेषय ॥३१॥ मदूर्मिकामिमां देव्या मदभिज्ञानमर्पय । तस्याश्चडामणिञ्चाभिज्ञानमत्र समानयेः ॥ ३३ ॥ इदं मद्दाचिकं संसेद्देवि यलक्ष्मणाग्रजः । त्वद्वियोगातुरोऽत्यन्तं ध्यायंस्त्वामेव तिष्ठति ॥३३॥ मात्पाचीद्वियोगेन जीवितं जीवितेश्वरि । लक्ष्मणेन हतं द्रच्यस्यचिरादेव रावणम् ॥३४॥ हनुमानप्य वाचैवं यावदाज्ञां विधाय ते । लङ्कायाः पुनरायामि तिष्ठेतावदिह प्रभो ॥ ३५॥ ू
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy