________________
रामायणम् । सनातप्रत्ययास्तेपि व्योमयानेन पूर्ववत् । किष्किन्धायां समानिन्युलक्ष्मणं रामसन्निधौ ॥१६॥ कपिटवा स्ततः प्रोचर्यष्पत्तो रावणचयः । आदौ प्रेष्योतिषां दूत इति नीतिमतां स्थितिः ॥१७॥ सन्देश हारकेणापि यदि सियेत्प्रयोजनम् । पर्याप्तं स्वयमुद्योगं कर्मणा मभुजान्तदा ॥१८॥ समर्थः प्रेष्यतां तत्र कोपि दूतो महाभुजः । सा दुःप्रवेशनिःकाशा लङ्काहि श्रूयते क्षितौ ॥१६॥ गत्वा दूतः स लङ्कायां मणिष्यति विभीषणम् । सीतार्पणकते रक्षःकुले स खलु नीतिवान् ॥२०॥ सीतां मोचयितं सोऽपि रावणं बोधयिष्यति । रावणेन खवज्ञात स्त्वामेष्यति तदैव हि ॥२॥ एवं वचसि तेषान्तु रामेणाऽनुमते सति । श्रीमति प्रेष्य सुग्रीवो हनमन्तमथाहत ॥२२॥ अथ राम सभासीनं सुग्रीवादिसमादृतम् । नमश्चकार हनुमान् भानुमानिव तेजसा ॥२३॥ ततेो रामाय सुग्रीवः शशंसैवमयं हिनः। विधुरे परमा बन्धु विनयी पावनचयी ॥२४॥ नास्य तुल्यो दितीयोऽस्ति सर्व विद्याधरेषपि। .. सीताप्रमिलामार्थ स्वामिन्नेतं तदाऽदिश ॥२५॥ ...