________________
२३८
रामायणम् ।
तदतः परमत्यन्तं महति व्यसनार्णवे । पतिष्यति पतिर्लङ्कापुर्य्यादोभानपि द्रुतम् ॥७६॥ अथते मन्त्रिणः प्रोचर्वय नान्नैव मन्त्रिणः । त्वमेव मन्त्रीमन्त्रातु' यस्येदृग् दूरदर्शिता ॥৩৩॥ किं करोमि परं मन्त्रः प्रभो कामवशम्बदे । मिथ्यादृष्टौ जने जैनधर्मस्येवेापदेशनम् ॥७८॥ सुग्रीवहनुमन्मुख्या मिलिता राघवस्य ये । महात्मनां न्ययभाजां कः पक्षं नावलम्बते ॥७६॥ सीतानिमित्तो वाकानान्युक्तो नः कुलक्षयः । तथापि पुरुषाधीनं कर्त्तव्यं समयोचितम् ॥८०॥ ततो विभीषणश्चक्र े वप्रे यन्त्रादिरे |पणम् । अनागतं हि पश्यन्ति मन्त्रिणो मन्त्रचक्षुषा ॥ ८१ ॥ इतश्च कालं कमपि कथमप्य त्यवाडयत् । सौमित्रिणाऽखास्य माना.रामोविरहपीडितः ॥८२॥! अनुशिष्याथ रामेण प्रेषितो लक्ष्मणः खयम् । व्रतस्थे प्रतिसुग्रीवं तृणचापकपाणयत् ॥८३॥ दलयन् क्ष्मां पदन्यासैः कम्पयंस्तञ्च पर्वतम् । वेगान्दोलितदोः स्यर्शान्मार्गष्टचाश्च पायतन् ॥८४॥ उत्कटभृकुटीभीमललाटोऽरुणलाचनः । भीतस्यैर्मुक्तमार्गः प्रस्य सुग्रीवेश्म सः ॥ ८५ ॥