________________
रामायणम् । तस्याऽसिसाधकस्यैव काचिदुत्तरसाधिका । मद्देवरस्यानुपदं तब कोपादुपाऽगमत् ॥५६॥ भर्तारं मम दृष्ट्रा चाऽद्भुतरूपपुरन्दरम् । अयाचीदन्तकामार्ताऽवानासीत्ताञ्च मत्पतिः ॥५७॥ साऽगच्छदागमदथ रक्षसां बलमुल्यणम् । . ज्वेडां वैधुर्यसङ्कती कत्यागाल्ल हमणो युधि ॥५८। मायाज्वेडामथो कृत्वा दूरं नीत्वा च मत्पतिम् । दुराशोऽहृत मामेष खवधायैव रोक्षसः ॥५६॥ तच्छत्वा रावणं नत्वा बभाषे च विभीषणः । कुलस्य दूषणमिदं खामिन्कम्म त्वया कृतम् ॥६॥ न यावदिह हन्तुं नः काकुस्थोऽभ्येति सानुजः । मुच्यतां तावदावेव नीत्वा सीतां तदन्तिके ॥६॥ इत्युक्त रावणः क्रोधारुणाक्षोप्यववीदिति । किमिदं भाषसे भीरो ब्यस्मार्षीमम पौरुषम् ॥६॥ सीताऽनुनीताऽवश्यं हि मम भार्या भविष्यति । तो चायातौ हनिष्यामि वराको रामलक्ष्मणौ ॥६॥ उचे विभीषणो भातः सत्यं तज्ज्ञानिनो वचः। .. यद्रामपत्न्याः सीतायाः कृते नः कुलसंक्षयः॥६॥ भक्तस्य बन्धोर्मे वाचं मन्यसे नान्यथा कथम् । मया हतो दशरथः स तावज्जीवितः कथम् ॥६५॥
३