________________
२३५
रामायणम् । दम्पतित्वमायुक्तं तव तस्य च पाप्मनः। रिरंसुरेकोऽन्य स्त्रीषु दूती भवति चाऽपरा ३६ दृष्टमप्यचिता नासि किसु सम्भाषितुहले। स्थानादितो गच्छ गच्छ त्यज दृष्टिपथं मम ॥३७॥ रावणोपि तदा तवाजगाम निजगाद च । कुपितासि कुतः सीते दासी मन्दोदरी तव ॥३८॥ दासस्ते खयमप्यस्मि प्रसादं करु देवि मे। जानकि त्वं जनममुप्रीणासि न दृशापि किम् ॥३६॥ सीता पराङ्मुखी भूयेत्यभाषत महासती। . कृतान्तदृध्या दृष्टोऽसि हरन्मां रामगेहिनीम् ॥४०॥ धिगाशान्ते हताशयाऽप्रार्थितप्रार्थकस्य रे। जीविष्यसि कियद्रामै सानुने विषदन्तके ॥४॥ तयेत्याक्रुश्य मानापि भयो भूयो दशाननः । तथैवोवाच धिगहा कामावस्था बलीयसो ॥४२॥ अवान्तरे विपन्मग्नां सीतां द्रष्टुमिवाक्षमः। .. निममज निधिर्धाम्नां पश्चिमे लवणाम्बुधौ ॥४॥ प्रावर्तत निशा घोरा घोरबद्धिश्च रावणः ।। सीतायै क्रोधकामान्ध उपसर्गान्प्रचक्रमे ॥४४॥ घत्कारिणो महाघकाः फेस्कुर्वाणाच फेरवः ।। दृका विचित्रं क्रन्दन्त उत द्योम्योन्ययोधिनः ॥४५॥