________________
२२०
रामायणम् ।
निकृत्तपचः पक्षोत्र हृतविद्यः पपात सः ! कम्बुद्वीपे कम्बुशैलमारुह्य समवास्थितः ॥४६॥ रावणोपि विमानस्थो गच्छन् व्योम्नाऽर्णवोपरि । इति सानुनयं प्रोचे मैथिलीं मन्मथातुरः ॥ ५० ॥ नभञ्चरच्याचराणां भर्तुर्मे महिषोपदम् । प्राप्तासि रोदिषि कथं हर्षस्थाने कृतं शुच ॥५१॥ मन्दभाग्येन रामेण सह त्वां योजयन्विधिः । नानुरूपं पुराचक्रे मयाऽकार्य्यधुनोचितम् ॥ ५२ ॥ मां पतिं देवि मन्यख सेवया दाससन्निभम् । मयि दासे तब दासाः ख चय्यः खेचरा अपि ॥ ५३ ॥ ब्रुवाणे रावणे त्वेवं सोता तस्थावधोमुखी । स्मरन्ती मन्त्रवद्भक्त्या राम इत्यचरद्दयम् ॥५४॥ जानकीपादयोर्मूर्ध्ना स पपात स्मरातुरः । साप्यपासारयत्पादौ परपुंस्यर्शकांतरा ॥ ५५ ॥ आचुक्रोश च सीतैवं निरनुक्रोश निस्तप । अचिराल्लभासे मृत्यु' परस्त्रीकामनाफलम् ॥५६॥ तदानीं संमुखाययुर्मन्त्रिणः सारणादयः । अन्ये च रक्षःसामन्ताः समन्ताद्राच्च सप्रभेाः ॥ ५७॥ महोत्सवां महेोत्साहो महासाहसकृत्पुरीम् । श्रागमद्रावणो लङ्कामलंकमणविक्रमः ॥ ५८ ॥