________________
११४
रामायणम्। गत्वा च रानभद्राय तदशेषं शशंस सः । असिच्च दर्शयामास रामोप्येवमभाषत ॥८॥ असावसिः सूर्य हासः साधकोऽस्य त्वया हतः । अस्य सम्भाव्यते ननं कश्चिदुत्तरसाधकः ॥६॥ अवान्तरे दशग्रीवखसा चन्द्रणखाऽभिधा । मत्सू नोः सूर्य हासोद्य सेत्सप्रतीति कृतत्वरा ॥६१॥ पूजापानान्नसहिता तब प्रमुदिता ययौ । ददर्श च शिरःसूनाःच्छिन्नं लुलितकुगह लम् ॥१२॥ कासि हावत्म सम्बूक शम्बकेति रुदत्य य । अपस्यलक्ष्मणस्याविन्यासपंक्ति मनोहराम् ६३॥ मम सूनुहतोयेन तस्वयं पदपद्धतिः। इति तत्पदपद्धत्या द्रुतं चन्द्रणखा ययौ ॥१४॥ यावत्किञ्चिदगात्तावत्ससीतालक्ष्मणं पुरः । नेत्राभिरामं रामं साऽपयत्तरुतले स्थितम् ॥६५॥ निरीक्ष्य राम सा सद्यो रिरंसाविवशाऽभवत् । कामावेशः कामिनीनां शोकोद्रेकेपि काप्यहे।॥६६॥ कन्यारूपं विकृत्याथ नागकन्या सहोदरम् । सामन्मथार्ता काकस्थ मुपतस्थ सवेपथुः ॥६॥ बभाषे रामभद्रस्तां भद्रे कत इहागमः । दारूणे दण्डकारण्ये कृतान्तैकनिकेतने ॥१८॥