________________
रामायणम् ।
२११.
तत्पीडापीडितं ज्ञात्वा स्कन्दकं पालकोपि हि । तमेव वालकमुनिं तत्पीडार्थमपीलयस् ॥५६॥ उत्पन्न केवलाः सर्वेप्यवापुः पदमव्ययम् । प्रत्याख्याय स्कन्द्रकस्तुनिदानमिति निर्मम ॥६०॥ दण्डकस्य पालकस्य तथाव कुलराष्ट्रयोः । व्यापादनाय भूयासन्तपसेाऽस्य फलं यदि ॥ ६१ ॥ एवं कृतनिदानः सन् पोलितः पालकेन सः । देवोवह्निकुमारोऽभूत् कालाग्निरिव तत्क्षणे ॥६२॥ पुरन्दरयशोदत्त रत्नकं वलतन्तुजम् । तद्रजेाहरणं रक्तेनाक्तं शकुनिकाऽहरत् ॥ ६२ ॥ दोह' ण्डबुद्ध्या यत्नेन गृहीतमपि तत्वतः । पुरः पुरन्दरयशो देव्या देवात्पपात सः ॥६४॥ विदाञ्चकार साभर्त्तु महर्षेर्विपदं ततः । किमकार्षीः पापमित्याक्रोशञ्च दण्डकम् ॥ ६५ ॥ तां शोकमग्नामुत्यानैषीच्छासन देवता । मुनिसुव्रतपादान्ते मबज्यामाददे च सा ॥ ६६ ॥ स्कन्दकोऽग्नेः कुमारोपि प्राग्जन्मावधिनाविदन् । स पालकं सपले कमदहदण्डकं नृपम् ॥६७॥ तदादि दण्डकारण्य मिदं दारुणमुदसम् । दहकस्याभिधानेन वभूव भुवि विश्रुतम् ॥ ६८ ॥