________________
रामायणम् । सा प्रोचे प्राञ्जलिर्भूत्वा मातरो वनदेवताः । दिग्देव्यो व्योमदेव्यश्च सर्वाः श्टण्वन्त महचः ॥७६॥ नादिह भवे तावन्मम भी स लक्ष्मणः । भयावान्तरे तहि भक्तिस्तन ममास्ति चेत् ॥८॥ इत्युदित्वा कण्ठपाशं विधायोत्तरवाससा। बच्वा च वटशाखायां द्राक् सात्मानमवलम्बयत् ॥८१॥ . भद्रे मासाहसङ्कार्षीर्लक्ष्मणोहमिति ब्रवन । लक्ष्मणोऽपाश तत्पाशं तामादायोत्ततारच ॥८२॥ प्रबुद्धयोनिशाशेषे लक्ष्मणो रामसीतयोः । शशंस वनमालाया वृत्तान्तं तमशेषतः ॥८३॥ ह्रियाऽवगुण्ठितमुखी वनमालापि तत्क्षणम् । जानकीरामचरणारविन्देश्यो नमोऽकरोत् ॥८॥ इतोपि च तदेन्द्राणी महीधरन पप्रिया । वनमालामपश्यन्ती प्रच्चक्रे करणवरम् ॥८५॥ वनमालान्वेषणाय निर्ययौ च महीधरः । इतस्ततः परिम्भाग्य सूत्रस्थाश्च ददर्श ताम्॥८६॥ हतहतैतान कुमारी तस्करानिति माषिषु । उदस्तेषु च सैन्येषूत्तस्थौ रामानुजः क्रुधा ॥८७॥ धनुष्यारोपयामास स ज्यां भाल इव ध्रुवम् । अकारयच्च टङ्कारं वैर्यहङ्कारहारकम् ॥८८॥
२५