________________
गमायणम् । वश्योरिम व्यन्तर इव तव स्वामिन समादिश । किङ्करः किङ्करोग्येष सहखाविनय मम ॥१६॥ वालिखिल्यं विमुञ्चेति रामेणोक्तः किरातराट् । तं मुमोच नमश्चक्र वालिखिल्योहि राघवम् ॥२०॥ रामाज्ञया च काकेन स निन्ये कवरं पुनः । कल्याणमालां पुवेषामपश्यच्च सुता निजाम् ॥२१॥ रामलक्ष्मण वृत्तान्त मिथोऽकथयताञ्च तौ। कल्याणमालिका वालिखिल्याया ऽखिलमप्यथ ॥२२॥ काकोपि खां ययौ पल्लि ततो रामोऽपि निर्गतः । विन्ध्याटवीमतिक्रम्य प्राप तापी महानदीम् ॥२३॥ तापीमुत्तीर्य चक्रामस्तद्दे शप्रान्तवर्तिनम् । अरुणग्रामनामानं रामोग्राममथा ऽसदत् ॥२४॥ पिपासितायाः सीताया स्तन रामः सलहारण: । . गृहे ययौ कापितस्य कपिलस्याग्निहोत्रिणः ॥२५॥ ब्राह्मणीच सुशर्माख्या तेभ्योऽदात पृथगासनम् । स्वयञ्च पाययामास सलिल खाटुशीतलम् ॥२६॥
आगात्तदाच कपिलः पिशाच व दारुणः । निरीक्ष्यचोपविष्टांस्तान रुष्टोऽभाषिष्ट गहिनीम॥२७॥ मलिनानां किमेतेषां प्रवेशो मम वेश्मनि। . पापीयसि त्वया दत्वाऽग्निहोत्रमसुचीकृतम् ॥२८॥