________________
१५
रामायणम् ।
गिरौ तत्त्रैव चादित्य पुरे मन्दिरमाल्य भूत् । विद्याधरनृपस्तस्य श्री मालेति च कन्यका ॥ ३६ ॥ तस्या खयम्बरे तेना ताविद्याधरेश्वराः । जयोतिषीवाधिविमान मधिमञ्च मुपाविशन् ॥४०॥ कथ्यमानान् प्रतीहार्या तान् विद्याधरपुङ्गवान् । पस्पर्श दृष्ट्या श्रीमाला कुल्या वृक्षानिवाम्यसा ॥ ४१ ॥ अन्यविद्याधरान् सर्वानतिक्रम्य क्रमेण सा । गत्वा चतस्थे किष्किन्धे जाह्नवी पयोनिधौ ॥ १२ ॥ तस्य कंठे निचिक्षेप श्रीमाला वरमालिकाम् । भविष्यदोल्लता श्लेष सत्यं कारमिवानवम् ॥४३॥ उन्नैर्विजयसिंहाथ सिंहवत्प्रियसाहसः । भृकुटीभीषणमुखः सरोषमिदमभ्यधात् ॥४४॥ निर्वासिता पुराप्येते सदा दुर्नयकारिणः । वैतान्य राजधानीतः सुराजादिकदस्यवः ॥४५॥ तत्केनाम इहा नीता दुर्नीता कुलपांशुना । न दद्या पुनराष्ट्रत्तैनिहन्त्येतान् पशूनिव ॥ ४६ ॥ इत्युदीर्य महावीर्य समुत्याय यमेापमः । चचाल किष्किन्धनृप क्वायायुधमुत्क्षिपन् ॥४७॥ किष्किन्धिनः सुके गाद्या अन्ये विजय सिंहतः । रणायोत्तस्थिरे विद्याधराः पौषदुर्द्धराः ॥४८॥