________________
रामायणम् । प्रतिपद्यति काकुत्स्थ स्तस्थौ तत्र दिनत्रयम् । निशाशेषे सुप्तजने ससीतालक्ष्मणो ययौ ॥६६. सापि प्रातरपश्यन्ती जानकीरामलक्ष्मणान् । विमनाः ख पुरमऽगाच्चक्रे राज्य तथैवतु ॥१०॥ प्राप क्रमेण रामोपि नर्मदामुत्ततार च । पथिकैायमाणोपि विंध्याटव्यां विवेश च ॥१॥ तत्रादौ दक्षिणदिशि कण्टकिस्थितो दिजः । ररास विरसं क्षीरस्थोऽन्यो मधुरं पुनः ॥२॥ न विषादो नवा होऽभू द्रामस्य तथापिहि। शकुनञ्चाश कुनञ्च गणयन्ति हि दुर्वलाः ॥३॥ गच्छन् ददर्श चागच्छन म्लेच्छसैन्यमुदाय धम् । असंख्य भरथाश्वीयं देशघाताय निर्गतम् ॥४॥ युवा सेनापतिस्तत्र दृष्ट्वा सीतां स्मरातुरः । स्वच्छन्दत्तिः स्वान म्लेच्छानुच्चकैरेवमादिशत ॥५॥ अरेरे पथिकावेतो नाशयित्वा विनाश्य वा । एताम्बरस्त्रियं हृत्वा समानयत मत्कृते ॥६॥ इत्युक्ताः सह तेनैवाऽधावन्त प्रति राघवम् । प्रहरन्तः शरप्रासप्रायैः प्रहरणैः शितैः ॥७॥ उवाच लक्ष्मणो रामं तिष्ठाउँह सहार्यया। अमून्शु नव म्लेच्छान यावहिद्रावयाम्यहम् ॥८॥
२४