________________
१८२
रामायणम । विनाहतं विना साधु नमस्यो मापरो मया । इतिह्यभिग्रहोऽग्राहि महाः ग्रीतिवर्द्धनात् ॥६॥ रामभसंनया सिंहादरस्तत्प्रत्यपद्यत । सौमित्रिणा विमुक्तासन वन कर्णञ्च सखजे॥७॥ सिंहदरोपि परया प्रीत्या राघवसाक्षिकम् । राज्याई ववकर्णाय सोदरायेव दत्तवान् ॥७॥ श्रीधराकुण्डले तेच याचित्वावन्तिपार्थिवात् । अदत्त विद्युदङ्गाय दशाङ्गपुरपार्थिवः ॥७२॥ सौमित्र ये वजकों ददावष्टौ खकन्यकाः । सिंहदरः ससामन्तः पुनःकन्याशत बयम् ॥७॥ अथोचे लक्ष्मणं कन्याः पार्श्व वःसन्त संप्रति । नाता नो भरतराज्ये यतः पित्रा निवेशितः ॥७॥ समयेऽङ्गीक तराज्य : परिणेष्यामि वः सुताः। इदानीन्तु वयङ्गत्वा स्थास्यामो मलयाचले ॥७॥ एवमित्य वा स्थितौ बज्जकर्ण सिंहादरौ नृपौ। विसृष्टौ रामभद्रेण ययतुर्निजपुरं पुरम् ॥७६॥ रामस्तव निशान्नीत्वा ससीतालक्ष्मणःप्रगे। गच्छन् क्रमेण संप्रापशङ्कमपि निर्जलम् ॥७॥ पिपासितायां सीतायां विश्रान्तायो तरोतले । रामाजयाऽथ सौमिविर्जलमानेतुमभ्यगात् ॥७८॥