________________
रामायणम
१७३
भरतोपि नमश्चक्रे रामपादावुशुड़क् । प्रत्यपद्यत मूर्च्छाञ्च मूर्च्छाव ेद महाविषः ॥ १२॥ बोधितो रामभद्रेण विनयी भरतोऽवदत् । श्रभक्तमित्र मां त्यक्त्वा कथमत्र त्वमागमः ॥१३॥ राज्यार्थी भरत इति मात्तृदोषेण योऽभवत् । ममापवादोहरत मात्मना सह मां नयन् ॥ १४ ॥ नित्य यद्दाऽयोध्यायां गत्वा राज्य श्रियं श्रय । कौलीनशल्यं मे भ्रातरेत्र मप्यपयास्यति ॥ १५ ॥ जगन्मित्र' हि सौमित्रिस्तवाऽमात्यो भविष्यति । अयं जनः प्रतीहारः शवुघ्नस्त्वा तपवभृत् ॥१॥ एवं ब्रुवाणे भरते कैकैय्यप्यऽब्रवीदिदम् । कुरु भ्रातृवचो वत्स सदासि भातृवत्सलः ॥१७॥ अव न त्वत्पितुर्देषो न दोषो भरतस्य च । कैकेय्या एव दोषोऽयं सुलभः स्त्री खभावतः ॥ १८ ॥ कौलावजं ये केमि दोषाः स्त्रीणां पृथक् पृथक् । ते सर्वे कृतसंस्थाना मयि दोषखनाविव ॥१६॥ पत्युः सुतानां त्वन्मातृजनस्य च मया कृतम् । इदं दुःषाकर' कर्म तत्महख सुतोसि यत् ॥२०॥ इत्यादि साथ जल्यन्ती तामूचे लक्ष्मणाग्रजः । तातस्य सूनुर्मूत्वाऽहं प्रतिज्ञातं त्यजामि किम् ॥ २१॥