________________
१५६
रामायणम् । अथ दाशरथी रामश्चलकांचन कुण्डलः । - गजेन्द्र लीलागमनश्चापोपान्तमुपासरत ॥४२॥ वोक्ष्यमाण: सेपहासं चन्द्र गत्यादिमिन पैः । जनके न च साशङ्कनिःशङ्कोलक्ष्मणाग्रजः ॥४३॥ वज्वमिव वनपाणिः वजावत्तं महाधनुः । शान्तोरगानलं सद्यः परिपस्यर्श पाणिना ॥४४॥ स्थापयित्वा महीपीठं नमयित्वा च वेत्रवत् । अधियं विदधे धन्वा तद्रामोधन्विनां वरः ॥४५॥ आकणं तं तदाकृष्य रोदः कुक्षिभरिध्वनि । धनुरास्मालयामास स्वयशः पटहेममम ॥४६॥ खयम्बरखजरामे स्वयं चिक्षेप मैथिली। चापाच्चोत्तारयामास रामभद्रोपि सिञ्जिनीम ॥४८॥ लक्ष्मणोप्यणवावत्तं कार्मुकं रामशासनात । अधिज्यं विदधे सद्यः प्रेषितो विस्मितैर्जनैः ॥४८॥ प्रास्फालयच्च तन्नादवधिरीकदिङ्मुखम् । उतार्यमौवीं सौमित्रिः पुनः स्थ ने मुमोचच ॥४६॥ ददुः सौमित्र ये विद्याधराश्चकितविस्मिताः । अष्टादश निजाः कन्याः सुरकन्या इवा ताः॥५०॥ विलक्षाश्चन्द्र गत्याद्यास्तम्य द्भामण्डलान्विताः । विद्याधरेन्द्राः प्रययुः पुरं निजनिज ततः ॥५१॥