________________
१४०
रामायणम् ।
सर्व कलगीतानि सर्वत्र घुसृणच्छटाः ।
सर्वत्र तोरणश्रेण्यो व्यधीयन्त तदा पुरि ॥८२॥ श्रचिन्तितोपनीतानि प्राम्टतानि महीम्टताम् । तदा राज्ञे समाजग्मु स्तस्य सूनोः प्रभावतः ॥८३॥ पद्मानिवासपद्मस्य पद्म इत्यभिधां नपः । वनस्तस्याऽकरोत्योभप्रथितो राम इत्यपि ॥ ८४ ॥ गजसिंहाचन्द्राग्निश्री समुद्रान्निशात्पये | स्वप्नेऽपश्यत्सुमित्रापि विष्णुजन्माभिसूचकान् ॥८५॥ देवलोकात्परिच्युत्य तदा देवो महिदिकः । तदा देव्याः सुमित्राया उदरे समवातरत् ॥८६॥ समये प्राष्टडम्मोदवर्णं संपूर्ण लचणम् । सुमिवापि जगन्मित्रं पुत्ररत्नमजीजनत् ॥८७॥ पुरश्चैत्येषु सर्व्वेषु श्रीमतामर्हतां तदा । विशेषेणाष्टधा पूजां स्तोत्रपूर्वं व्यधान्नृपः ॥८८॥ नृपतिमेचयामास ष्टतान् वन्दिरिपूनपि । कोवा न जीवति सुखं पुरुषोत्तमजन्मनि ॥ ८६ ॥ सोच्छास सप्रजेाराजा न केवलमभूत्तदा । वसुमत्यपि देवी द्रागुच्छासं प्रत्यपद्यत ॥६०॥ रामजन्मनि भपालो यथा कृतमहोत्सवम् । तथा तमधिक' चक्रे हर्षे कोनाम टप्यति ॥ ६१॥
a
ू