________________
रामायणम् ।
राजा दशरथस्तव विजित्य मगधेश्वरम् । तत्रैवास्यान्नतु ययावयोध्यां शङ्कया तथा ॥७२॥ तत्रापराजिता मुख्य मन्तः पुरमिलापतिः । निजमानाययामास राज्यं सर्वत्र देम ताम् ॥७३॥ राज्ञीभोरममाणो स्थात्पुरे तब चिरं नृपः । विशेषतः प्रीतये हि राज्ञां भः खयमर्जिता ॥७४॥ अघापराजितान्येद्युर्गजसिंहेन्द्भास्करान् । खने पश्यन्निगाशेषे बालजन्माभिचकान् ॥ ७५ ॥ ब्रह्मलेाकात्परिच्युत्य तदा देवो महर्द्धिकः । कुक्षावषातरक्तस्याः पुष्करिण्यां मरालवत् ॥७६॥ नं पुण्डरीक ं वर्येन पुण्डरीकविडम्बनम् । सम्पूर्णलक्षणं स्वनुं सुषुवेऽथाऽपराजिता ॥७७॥ प्रथमापत्यरत्नस्य तस्यास्य कमलेक्षणात् । राकेन्दुदर्शनादधिरिवादि मुमुदे नृपः ॥ १८ ॥ नपश्चिन्तामणिरिव ददौ दानं तदार्थिनाम् । लोकस्थितिरियं जाते नन्दने दानमक्षयम् ॥ ७६ ॥ महान्तमुत्सवं चक्रस्तदा लोकास्तथा स्वयम् । यथाऽभूवन्नतिमुदो राज्ञो दशरथादपि ॥८०॥ नृपौकांसि सनायानि दूर्वापुष्पफलादिभिः । निन्युः कल्याणपात्राणि पूर्णपात्राणि नागराः ॥८१॥
१३६