________________
रामायणम् । हनुमानप्यबईष्ट तत्र क्रीडन्यथासुखम् । राजहंसाभक व मानसांभोजिनीवते ॥१८॥ दोषोध्यारोपितः श्वथा कथं नामातरिष्यति । सदैवं चिन्तया तास्यदन्तःशल्येव चाचना ॥१६॥ इतश्च पवन: सन्धिं विधाय खरदूषणौ । वरुणान्मोचयामास तोषयामास रावणम् ॥२०॥ ततश्च रावणो लङ्कां जगाम सपरिग्रहः । पवनापि तमाप्टच्छा तमेव पुरमाययौ ॥२१॥ प्रणम्य पितरौ तनाञ्जनावासगृहं ययौ । तच्चानचनमद्राक्षीतज्योत्स्नमिवोडुपम् ॥२२॥ काञ्जना सा नयनयोरमताञ्जनदर्शना । मत्प्रेयसीति तत्र स्थामेकां पप्रच्छ च खियम् ॥२३॥ साप्याख्यत्त्वयि यात्रायांगते हः सु कियत्वपि । निर्वासिता केतुमत्या गर्भसम्भवदेोषतः ॥२४॥ महेन्द्रनगरासन्ने सा नीत्वा रक्षपुरुषैः । अरण्ये मुमुचे पापैहरिणीयमाकुला ॥२५॥ इति श्रुत्वाथ पवनो ययौ पवनरंहसा । पारावत इव प्रेयस्यत्कः सुरपत्तनम् ॥२६॥ प्रियाम पश्यं स्तत्रापि पप्रच्छेकां स योषिताम् । इहाञ्जना प्रेयसी मे किमायातायवा नहि ॥२७॥
१५