________________
रामायणम् । अङ्गुलीयकमात्रेण प्रतारयसि नः कथम् ।
प्रतारणाप्रकारान् हि बहून् जानन्ति पांमुलाः ॥२८॥ मद्गृहादद्य निर्गच्छ गच्छ खच्छन्दचारिणि । पितुर्वेश्मनि मात्रस्थाः स्थानमेतन्नहीदृशम् ॥२६॥ तर्ज्जयित्वाज्ञ्जनामेत्रं नेतुं पितृनिकेतने । आदिचदारचनरान्निःकृपा राक्षसीव सा ॥ ३० ॥ तां च ते यानमारोप्य वसन्ततिलकान्विताम् । महेन्द्रनगरोपान्तं नीत्वाऽमुचन्नुदश्रवः ॥ ३१ ॥ तां मातृवन्नमस्कृत्य चमयित्वा च ते ययुः । खाभित्रत् स्वाम्यपत्येपि सेवकः समवृत्तयः ॥३२॥ तद्दुःखदुःखित इव तदाचास्तमगाद्रविः । सन्तः सन्तीं न विपदं विलेोकयितुमीश्वराः ॥३३॥ घूकानां घोरघूत्कारैः फेत्कारैः फेरुयोषिताम् । क्रन्दितैकदानां खाविध्यविविधैः खनैः ॥ ३४ ॥ तुमलैः पिङ्गलानाञ्च सङ्गीतैरिवरचसां । स्फुटत्कर्णेव सा कष्टं तां जाग्रत्यऽनयन्निशाम् ॥ ३५ ॥ प्रातरुत्थाय सा दीना शालीनेव ह्रिया शनैः । . ययौ पिढगृहद्वारे भिक्षुकीवापरिच्छदा ॥ ३६॥ 'दृष्ट्वा ससंम्भ्रमस्ताञ्च प्रतीहारोऽनुयुज्य च ॥ अवस्थां तादृशीं सख्या ख्यातां राज्ञे व्यजिज्ञपत्॥३७॥
१०४