________________
रामायणम् । भूयस्ता पवनोऽवाचन्मयाऽतिक्षद्बुट्विना । निरागाः खेदितासि त्वं तत्महस्व प्रिये मम ॥८॥ अवोचदञ्जनाप्य वं नाथ मास्म ब्रवीरिदम् । सदैव तव दास्यस्मि क्षामणानुचिता मयि ॥६॥ निर्जगाम प्रहसितोवसन्ततिलकाप्यथ । रहःस्वंयोहि दम्पत्योनिच्छेकाः पाश्र्ववर्तिनः ॥१०॥ रेमाते तत्र चाऽ स्वैरमञ्चन पवनञ्जयौ। विरराम रसावेशाच्चैकयामेव यामिनी ॥११॥ प्रभातप्रायमालोक्य तामचे पवनञ्जयः । जयाय कान्ते यास्यामि ज्ञास्यन्ति गुरुवोऽन्यथा ॥१२॥ खेदं माऽतःपरं काषी: सुखं तिष्ट सखीरता । दशाख कृत्यं सम्पाद्य यावदायामि सुन्दरि ॥१३॥ साप्य वाचेति तत्र दोमतः सिद्दमेवते। कतार्थः शीघ्रमागच्छेज्जीवन्ती मां यदीच्छसि ॥१४॥ अपरंच ऋतुस्नातास्माद्यैव यदि मे भवेत्। . गर्भस्तत्वत्परोऽपवदेयः पिशुना मयि ॥१५॥ . पवनोऽप्याललापैवं शीघ्रमेष्यामि मानिनि । मय्यायाते कथं चद्रा विकाशो भविता त्वयि ॥१६॥ अथवा गृह्यतामे तन्म दागमनसूचकम् । मन्नामाङ्कमङ्गुलीयं समये तत्प्रकाशयेः ॥१७॥