________________
रामायणम् । तत्र पर्यजन्मारूढ़ः सज्ज्योपरिसरावणः । अात्ती प्रियवियोगेन चक्रवाकी ददर्श सः ॥७॥ पूर्वीपात्तामभुजानां मृणाल लतिकामपि । तप्यमानां हिमेनापि कथितेनेव वारिणा ॥७॥ दूयमाना ज्योत्स्नयापि वह्नविछटयेव ताम् । क्रन्दन्ती करुणं प्रेत्वा स एवं पर्यचिन्तयत्॥८॥ सकलं वासरं पत्या रमते चक्रवाकिका । न सादमीशते नक्तमपि तहिरहं पुनः ॥८॥ उहाहितापि यात्पता भाषिता या न जातुचित् । आगच्छताप्यवज्ञाता परनारीव या मया ॥८२॥ अाक्रान्ता दुःखभारेण पवतेनेव मूलतः । अदृष्टमत्सङ्गसुखा सा कथं हा भविष्यति ॥८॥ धिक धिक् ममाविवेकेन मियते सा तपखिनी । तहत्याः मातकेनाहं कगमिषामि दुर्मुखः ॥८४॥ इति चिन्तितमात्मीयमाख्यत्प्रहसिताय सः । खदुःखाख्यानपानं हि नापरः सुहृदं विना ॥८॥ प्रोचे प्रहसितोप्येवं साध्वजासीश्चिरादपि । ननं विपद्यते साद्य सारसीव वियोगतः ॥८६॥
आश्वासयितु मद्यापि सखे सा तव युज्यते । प्रियोत्या तामनुज्ञाप्य खार्थाय पुनरापतेः॥८॥