________________
रामायणम् ।
१७ पुरान्निःसृत्य वरुणोरणायाऽरुणलोचनः । राजीव पुण्डरीकाद्यैर्ट तः पुरयुध्यत ॥५८॥ तस्मिन्महति संग्रामे वीरैर्वरुणसनुमिः। योधयित्वा च बवा च निन्याते खरदूषणौ ॥५६॥ अभज्यत ततः सैन्यं राक्षसानामशेषतः । कृतार्थमानीवरुणोऽप्यविशन्नगरी निजाम् ॥६॥ विद्याधरेन्द्रानाह्वातु प्राहिणोद्रावणोपि हि। दूतान प्रत्ये कमप्यद्य भवते.प्रेषितस्त्वहम् ॥६॥ प्रह्लादेाथ दशास्याय साहायककते खयम् । यावच्चचाल तावत्तमुवाच पवनञ्जयः ॥६॥ इहैव तिष्ठ तात त्वं दशग्रीवमनोरथम् । पूरयिष्याम्यहमपि तवासि तनयोननु ॥६॥ इत्युदीर्य स निर्वन्धं पितरं चानुमान्य सः । लोकं चाशेषमाभाष्य चचाल पवनञ्जयः ॥६॥ श्रु त्वाञ्जना जनमुखात्पत्युर्यात्रामथोत्सुका। देवीव व्योमशिखरात्प्रासादादवरुह्य च ॥६५॥ तमीक्षितुमवष्टभ्य स्तम्भ पाञ्चालिकेव सा । निनिमेषेक्षणा तस्थावस्खास्थागमिताशया ॥६६॥ हारस्तम्भनिषणाङ्गी प्रतिपच्चन्द्रवरकशाम् । ललितालकसंच्छन्न ललाटां निविलेपनाम ॥६॥