SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ९५ ८ सर्गः] द्विसंधानम् । स्नुतेन स्वेदोद्गमेनोपलक्षितो मनोजः कंदर्पो यासां ताभिर्वधूभिः तमालपत्रैः प्रयुक्तेन कुसुमाञ्जलिना सिक्ता मूर्तिर्यस्य सः, रावणः, युधिष्ठिरश्च, अत्रस्नुताधिकमनोजवधूतमालमाल्येन न त्रसनशीलभावेनाधिकेन मनोजवेन धूतानि मालमाल्यानि येन तेन, तेन इन्द्रजिता नारायणेन च सहितः सन् स्वगृहं स्वनिवासयोग्यगृहं विवेश ॥ वसन्ततिलका ॥ सुसहायतया सुसहायतया मधुरं मधुरञ्जितयाजितया । शमितः शमितः सहितः सहितः प्रतिवासरवासरति प्रययौ ॥ १३ ॥ सुसहायेति ॥ सुसहायतया शोभना सहायता रक्षकता यस्यां तया, मधुरमत्यन्तपेशलं यथा स्यात्तथा मधुरञ्जितया मधुना वसन्तेन मयेन वा रञ्जितया आह्लादितया, अजितया अपराजितया सुसहायतया शोभनेन मित्रसमूहेन सहितः संयुतः, शं कल्याणमितः प्राप्तः, शमितः शान्तचित्तः, सहितः हितेन संयुतः, रावणः युधिष्ठिरश्च प्रतिवासरवासरति प्रतिदिनं वासे रतिं प्रीतिं प्रययौ ॥ तोटकवृत्तम् ॥ तां श्रीवर्धू चिन्तयतान्यभोग्यां तेन स्वसाकर्तुमपायमानाम् । न शीतमुष्णं न मतं सुखाय स्वावस्थयातप्यत केवलं सः ॥ १४ ॥ तामिति ॥ तां लोकविख्याताम् , अन्यभोग्यां राघवभोग्याम् , अपायमानां स्वसंनिधितोऽपगच्छन्तीम् , श्रीवर्धू जानकी स्वसाकर्तुं स्वाधीनीकर्तुं चिन्तयता चिन्ताकुलेन तेन रावणेन सुखाय, शीतं श्रीगन्धकमलकर्पूरादिवस्तु न मतं नेष्टम् , उष्णं कस्तूरिकादि न मतम् । केवलं स रावणः स्वावस्थया अतप्यत । भारतीये-अन्यो दुर्योधनः श्रीवधू राज्यलक्ष्मीरेव वधूः, तेन युधिष्ठिरेण ॥ श्लेषः ॥ उपजातिः ॥ त्रेपे नृपाणां समवस्थयोचैः सेहे न दुर्योधनकामबाधाम् । बालाङ्गनापाङ्गकृतापहासं रहस्यसौभाग्यमलं निनिन्द ॥ ५५ ॥ त्रेप इति ॥ रावणः, नृपाणां राज्ञां समवस्थया उच्चैरतिशयेन त्रेपे, तथा दुर्योधनकामबाधां दुःखेन योदूं शक्यस्य कंदर्पस्य पीडां न सेहे । रहसि एकान्ते बालाङ्गनापाङ्गकृतापहास बालाङ्गनाभिर्मुग्धाङ्गनाभिः अपाङ्गेन कृतोऽपहासो यस्य तत् असौभाग्यमलं दौर्भाग्यरजः निनिन्द ॥ भारतीये-असौ युधिष्ठिरः रहसि दुर्योधनकामबाधां गान्धारीतनयाभिलाषखेदम् । बालाङ्गनापाङ्गकृतापहासं बालैः शिशुभिरङ्गनाभिः कान्ताभिः अ. पाङ्गं निन्द्यं यथा भवति तथा कृतोऽपहासो यस्येत्येवं यथा स्यात्तथा भाग्यम् अलमतिशयेन ॥ श्लेषः ॥ न गुणैर्वधूभिरमितो रमितो न विलेपनं निजगृहे जगृहे । विभवेषु नो वशमितः शमितः स गतो यतित्वमुदितो मुदितः ॥५६॥ नेति ॥ गुणैः शौण्डौदार्यादिगुणैः अमितोऽगाधः, राजा वधूभिर्न रमितः क्रीडितः । तथा निजगृहे स्वमन्दिरे विलेपनं चन्दनादिना न जगृहे । विभवेषु वश न इतः । श
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy