________________
९६
काव्यमाला |
मितः शान्तचेताः अमुदितो ग्लानः उदितः अभ्युदयं गतः स यतित्वं गतः ॥ प्रमिता - क्षरावृत्तम् ॥
सवैरिणा श्रीमदनेन राजा निगूहमानो हृदयं विदीर्णम् । अगाधगम्भीर मुदात्तसत्त्वमाकारमय्यं बिभरांबभूव ॥ ९७ ॥
स इति ॥ स राजा रावणः वैरिणा श्रीमदनेन श्रीकंदर्पेण विदीर्ण विदारितं हृदयं निगूहमानः दुर्जनहास्यभयाद्गोपायन् सन् अगाधगम्भीरमकलनीयं, निक्षोभम्, उदात्तसत्त्वमुत्कटबलम्, अग्र्यं प्रधानम् आकारं कोपप्रसादादिज्ञापिकां शारीरप्रकृतिं बिभरांबभूव ॥ भारतीये – अनेन वैरिणा दुर्योधनेन विदीर्ण श्रीमत् हृदयम् ॥ श्लेषः ॥ उपजातिः ॥ स सदसि हृषीकेशेनोच्चैर्बलेन गरीयसा परमतनयेनायं भ्रातृव्रजेन च संगतः । विलुलितकथः शस्त्रे शास्त्रे कलासु कथासु च प्रभुरगमयत्कंचित्कालं धनंजयमूर्जयन् ॥ १८ ॥
इति धनंजयविरचिते धनंजयाङ्के राघवपाण्डवीयांपरनानि द्विसंधानकाव्ये रावणपाण्डवलङ्काद्वारवतीप्रवेशकथनो नामाष्टमः सर्गः समाप्तः ।
ससदेति ॥ सोऽयं प्रभू रावणः सदसि सभायां गरीयसा गरिष्ठेन अजय्येन बलेन सैन्येन, उच्चैरत्यर्थ हृषीकेशेन इन्द्रियाधीनेन भोगाभिलाषुकेण परमतनयेन प्रधानापत्येन मे - घनादेन, भ्रातृव्रजेन विभीषणादि भ्रातृसमूहेन च संगतः सन् शस्त्रे शास्त्रे ( जातावेकवचनम् ) कलासु नृत्यगीतादिषु कथासु पूर्ववृत्ताख्यानेषु च विलुलितकथः विहितविचार - णश्च सन् धनं जयं च ऊर्जयन् उपार्जयंश्च सन् कंचित्कालम् अगमयत् प्रापितवान् ॥ भारतीये - हृषीकेशेन नारायणेन गरीयसा बलेन बलभद्रेण परमतनयेन परं केवलं मत इष्टः नयो नीतिर्येन तथाविधेन परेषां शत्रूणां मतो ज्ञातो नयो येन तादृशेन वा भ्रातृवर्गेण भीमादिना च संगतः सन् धनंजयमर्जुनम् ऊर्जयन् प्रौढिं नयन् ॥ श्लेषः ॥ हरिणीवृत्तम् ॥
इति श्रीदाधीच जातिकुद्दालोपनामक श्रीच्छोटीलालात्मजश्रीबदरीनाथविरचितायां द्विसंधानकाव्यटीकायां रावणपाण्डवलङ्काद्वारवती प्रवेशकथनो
नामाष्टमः सर्गः ।
नवमः सर्गः ।
तस्मिन्काले जरासंधो वैरामोघभिया युतः । चित्तस्थमनुजं पश्यन्दूरतः पुरुषोत्तमम् ॥ १ ॥