________________
९ सर्गः]
द्विसंधानम् । तथा विराधितं वैरिभीमहानियमोद्यतम् । उद्युक्त्याश्वासयन्ख्यातस्तं कौरव्यंशुभावहः ॥ २ ॥ पृश्व्याः पाताललङ्कान्तः श्रीगृहं प्राप्य भूषणम् । सीताचिन्ताकुलः कार्य दुःखमालोचयन्स्थितः ॥ ३ ॥ अज्ञातचरितं शत्रु श्रीवधूहरणोद्यतम् । विरित्सन्विधुना धौते सौधे शीतेऽप्यतप्यत ॥ ४ ॥
(चतुर्भिः कुलकम्) तस्मिन्नित्यादि ॥ तस्मिन् काले सीताहरणसमये, जरासंधो जरया वार्धक्येन असंधा असंबन्धो यस्य सः, अघभिया पापभयेन युतः, दूरतः चित्तस्थं मनोगतं पुरुषोत्तमं लक्ष्मणनामानम् अनुजं कनिष्ठभ्रातरम् पश्यन्, वैरिभीमहानियमोद्यतं वैरिभ्यां खरदूषणाभ्यां भियां भये सति महानियमे वौरवधपर्यन्तं स्रक्चन्दनादि न उपभोक्ष्ये' इत्याकारके व्रते उद्यतं तं विराधितं खरदूषणनिर्घाटितं चन्द्रोदरपुत्रं तथा लक्ष्मणवत् उद्युक्त्या महाविचारणया आश्वासयन्, कौ क्षितौ ख्यातः, रव्यंशुभावहः सूर्यकरकान्तिधारी भास्वति किरणसत्तां हन्ति स वा, सीताचिन्ताकुलो जानकीहरणचिन्तया व्याकुलः सन् पृथ्व्याः भूषणं पाताललङ्कान्तः पाताललङ्कामध्ये श्रीगृहं विलासमन्दिरं प्राप्य दु:खं, यथा स्यात्तथा आलोचयन् अन्तर्मुखाकारवृत्त्या व्यालोकमानः सन् स्थितो रामोऽज्ञातचरितमविज्ञातचेष्टं, श्रीवधूहरणोद्यतं जानकीहरणोद्यमं, शत्रु रावणाभिधं विरित्सन् संहर्तुमिच्छन् विधुना चन्द्रेण धौते सुधीकृते शीते शीतलेऽपि अतप्यत ॥ भारतीये-तस्मिन्काले शरत्समये, वैरामोघभिया वैरेण अमोघया भिया युतः, चित्तस्थमनुजं मनोगतमनुष्यं, पुरुषोत्तमं नारायणं, दूरतः दूरस्थं पश्यन् ,वैरि-भीम-हानि-यमोद्यतं वैरिभूत-भीमसेनप्राणत्यागे व्रतोद्यमपरं विराधितं पाण्डवेभ्यो द्रुह्यन्तं, तं कौरव्यं दुर्योधनम्, उद्युक्त्या उच्चविचारणेन आश्वासयन्, शुभावहः शुभमावहति शुभं न वहति वा, पृथव्या भूमेः पाता, कान्तः कमनीयः, सीताचिन्ताकुलः भूमिस्थितिचिन्ताकुलःसन्, आललं मनोहरं, भूषणं श्रीगृहं लक्ष्मीरूपगृहं प्राप्य कार्यम् आलोचयन् दुःखं यथा स्यात्तथा स्थितः, जरासंधो तन्नामा नारायणप्रतिकूलः । श्रीवधूहरणोद्यतं लक्ष्मीललनापहारोद्यतम् । विधुना कर्पूरेण ॥ श्लेषः ॥ सर्गेऽस्मिमनुष्टुप्छन्दः ॥
सत्यग्रेसरसीतापहारिण्येषेत्यलोकयत् ।
यां यां तया तयारत्या दूनः परमकाष्ठया ॥५॥ सत्येति ॥ एषा सत्यग्रेसरसीतापहारिणी सतीनां पतिव्रतानामग्रेसरायाः सीताया अपहारिणी, इति प्रकारेण यां यामलोकयद् दृष्टवान् तया तया परमकाष्ठया अतिशयितया अरत्या रामो दूनः ॥ भारतीये-सती मनोहारिणी, तापहारिणी, एषा सरसी अग्रे वर्तते इति
१३