________________
काव्यमाला। यां यां सरसीम् अलोकयत् परमकाष्ठया परमोत्कर्षप्राप्तया अरत्या अप्रीतिमत्या तया तया सरस्या जरासंधः दूनः ॥ श्लेषः ॥
स्तनभारोऽधिकगुरुर्मध्यस्थो बलिविभ्रमः ।
तथापि साधुसंयोगात्तं न जहूः पुरेऽङ्गनाः ॥ ६ ॥ स्तनेति ॥ यद्यपि स्तनभारः अधिकगुरुर्घनपीनोन्नतः, बलिविभ्रमो बलित्रयोल्लासो मध्यस्थो मध्यदेशवर्ती, सकलजनमनोहारकोऽस्ति । तथापि तद्वत्योऽपि कामिन्यस्तं रामं जरासंधं वा साधुसंयोगात् पुरे न जहः ॥ शत्रुपराजयमन्तरेण मनोहार्यपि न रोचते इति भावः ॥
कल्याणनिक्कणा वीणा श्रुती नृत्यं विलोचने ।
हरिचन्दनमप्यङ्गं तानि तस्य न पस्पृशुः ॥ ७ ॥ कल्याणेति ॥ वीणा-नृत्य-चन्दनानि श्रोत्र-लोचन-शरीराणां सुखाय नासन् ॥
मत्तवारणमारुह्य संदशन्दशनच्छदम् ।
जातु भ्रूभङ्गविक्षेपमीक्षांचक्रे दिगन्तरम् ॥ ८ ॥ मत्तेति ॥ जातु कदाचित् दशनच्छदमोष्ठं संदशन् मत्तवारणं बालाणकम् आरुह्य भ्रूभङ्गविक्षेपं भ्रूभङ्गभङ्गुरललामं यथा स्यात्तथा दिगन्तरम् ईक्षांचके ॥ भारतीये-मत्तवारणं मत्तदन्तिनम् ॥
कदाचित्कृतनेपथ्यं स तुरङ्गमधिष्ठितः ।
उपरुद्धः क्षणं तस्थौ तैः सुमित्रात्मजादिभिः ॥ ९ ॥ कदाचिदिति ॥ स रामः कदाचित् कृतनेपथ्यं कल्पितसङ्ग्रामरङ्गं, तुरङ्ग चित्तम् अ. धिष्ठितः सन् तैः सुमित्रात्मजादिभिः लक्ष्मणविराधितप्रभृतिभिः उपरुद्ध आवृतः सन् क्षणं तस्थौ । भारतीये-कृतनेपथ्यं विहितभूषणं तुरङ्गमश्वम्, सुमित्रात्मजादिभिः सुसुहृ. त्पुत्रप्रभृतिभिः ॥ श्लेषः ॥
प्रौढे मन्त्रिणि तद्राज्यं प्राज्यं क्षिप्त्वा विराधिते ।
भोगेषु विरतोऽरातिघातदीक्षामुपाददे ॥ १० ॥ प्रौढ इति ॥ प्रौढे अजय्ये मन्त्रिणि हेयोपादेयतत्त्वविवेचके विराधिते चन्द्रोदरपुत्रे प्राज्यं सर्वाङ्गपूर्ण तद्राज्यं पाताललङ्कास्थां तदीयराजधानी क्षिप्त्वा दत्त्वा भोगेषु ताम्बूलमाल्यादिषु विरतो विरक्तः स रामोऽरातिघातदीक्षां रावणवधदीक्षाम् उपाददे ॥ भारतीयेअविराधिते अनुकूले ॥ श्लेषः ॥
अन्यदा साहसगतेर्विघातेन सदागतेः । उद्भूतभूपरागेण विलोलितगृहाश्रमः ॥ ११ ॥